Adhyāya
Pāda
4.2.1
तेन रक्तं रागात्
tena raktaṃ rāgāt
4.2.2
लाक्षा-रोचना-शकल-कर्दमाट् ठक्
lākṣā-rocanā-śakala-kardamāṭ ṭhak
4.2.3
नक्षत्रेण युक्तं कालः
nakṣatreṇa yuktaṃ kālaḥ
4.2.4
लुब् अविशेषे
lub aviśeṣe
4.2.5
सञ्ज्ञायां श्रवण-अश्वत्थाभ्याम्
sañjñāyāṃ śravaṇa-aśvatthābhyām
4.2.6
द्वन्वाच् छः
dvanvāc chaḥ
4.2.7
दृष्टं साम
dṛṣṭaṃ sāma
4.2.8
कलेर् ढक्
kaler ḍhak
4.2.9
वामदेवाड् ड्यड्-ड्यौ
vāmadevāḍ ḍyaḍ-ḍyau
4.2.10
परिवृतो रथः
parivṛto rathaḥ
4.2.11
पाण्डुकम्बलाद् इनिः
pāṇḍukambalād iniḥ
4.2.12
द्वैप-वैयाघ्राद् अञ्
dvaipa-vaiyāghrād añ
4.2.13
कौमार-अपूर्ववचने
kaumāra-apūrvavacane
4.2.14
तत्र+उद्धृतम् अमत्रेभ्यः
tatra+uddhṛtam amatrebhyaḥ
4.2.15
स्थण्डिलाच् छयितरि व्रते
sthaṇḍilāc chayitari vrate
4.2.16
संस्कृतं भक्षाः
saṃskṛtaṃ bhakṣāḥ
4.2.17
शूल-उखाद् यत्
śūla-ukhād yat
4.2.18
दध्नष् ठक्
dadhnaṣ ṭhak
4.2.19
उदश्वितो ऽन्यतरस्याम्
udaśvito 'nyatarasyām
4.2.20
क्षीराड् ढञ्
kṣīrāḍ ḍhañ
4.2.21
सा ऽस्मिन् पौर्णमासी इति सञ्ज्ञायाम्
sā 'smin paurṇamāsī iti sañjñāyām
4.2.22
आग्रहायण्य्-अश्वत्थाट् ठक्
āgrahāyaṇy-aśvatthāṭ ṭhak
4.2.23
विभाषा फाल्गुनी-श्रवणा-कार्तिकी-चैत्रीभ्यः
vibhāṣā phālgunī-śravaṇā-kārtikī-caitrībhyaḥ
4.2.24
सा ऽस्य देवता
sā 'sya devatā
4.2.25
कस्य+इत्
kasya+it
4.2.26
शुक्राद् घन्
śukrād ghan
4.2.27
अपोनप्त्र्-अपांनप्तृभ्यां घः
aponaptr-apāṃnaptṛbhyāṃ ghaḥ
4.2.28
छ च
cha ca
4.2.29
महेन्द्राद् घाणौ च
mahendrād ghāṇau ca
4.2.30
सोमाट् ट्यण्
somāṭ ṭyaṇ
4.2.31
वाय्व्-ऋतु-पित्र्-उषसो यत्
vāyv-ṛtu-pitr-uṣaso yat
4.2.32
द्यावापृथिवी-शुनासीर-मरुत्वद्-अग्नीषोम-वास्तोष्पति-गृहमेधाच् छ च
dyāvāpṛthivī-śunāsīra-marutvad-agnīṣoma-vāstoṣpati-gṛhamedhāc cha ca
4.2.33
अग्नेर् ढक्
agner ḍhak
4.2.34
कालेभ्यो भववत्
kālebhyo bhavavat
4.2.35
महाराज-प्रोष्ठपदाट् ठञ्
mahārāja-proṣṭhapadāṭ ṭhañ
4.2.36
पितृव्य-मातुल-मातामह-पितामहाः
pitṛvya-mātula-mātāmaha-pitāmahāḥ
4.2.37
तस्य समूहः
tasya samūhaḥ
4.2.38
भिक्षा-आदिभ्यो ऽण्
bhikṣā-ādibhyo 'ṇ
4.2.39
गोत्र-उक्ष-उष्ट्र-उरभ्र-राज-राजन्य-राजपुत्र-वत्स-मनुष्य-अजाद् वुञ्
gotra-ukṣa-uṣṭra-urabhra-rāja-rājanya-rājaputra-vatsa-manuṣya-ajād vuñ
4.2.40
केदाराद् यञ् च
kedārād yañ ca
4.2.41
ठञ् कवचिनश् च
ṭhañ kavacinaś ca
4.2.42
ब्राह्मण-माणव-वाडवाद् यन्
brāhmaṇa-māṇava-vāḍavād yan
4.2.43
ग्राम-जन-बन्धु-सहायेभ्यस् तल्
grāma-jana-bandhu-sahāyebhyas tal
4.2.44
अनुदात्तादेर् अञ्
anudāttāder añ
4.2.45
खण्डिक-आदिभ्यश् च
khaṇḍika-ādibhyaś ca
4.2.46
चरणेभ्यो धर्मवत्
caraṇebhyo dharmavat
4.2.47
अचित्त-हस्ति-धेनोष् ठक्
acitta-hasti-dhenoṣ ṭhak
4.2.48
केश-अश्वाभ्यां यञ्-छाव् अन्यतरस्याम्
keśa-aśvābhyāṃ yañ-chāv anyatarasyām
