Adhyāya
Pāda
4.1.49
इन्द्र-वरुण-भव-शर्व-रुद्र-मृड-हिम-अरण्य-यव-यवन-मातुल-आचार्याणामानुक्
indra-varuṇa-bhava-śarva-rudra-mṛḍa-hima-araṇya-yava-yavana-mātula-ācāryāṇāmānuk
4.1.50
क्रीतात् करण-पूर्वात्
krītāt karaṇa-pūrvāt
4.1.51
क्ताद् अल्पाअख्यायाम्
ktād alpāakhyāyām
4.1.52
बहुव्रीहेश् च अन्तोदत्तात्
bahuvrīheś ca antodattāt
4.1.53
अस्वाङ्ग-पूर्वपदाद् वा
asvāṅga-pūrvapadād vā
4.1.54
स्वाङ्गाच् च+उपसर्जनाद् असंयोग-उपधात्
svāṅgāc ca+upasarjanād asaṃyoga-upadhāt
4.1.55
नासिका-उदर-ओष्ठ-जङ्घा-दन्त-कर्ण-शृङ्गाच् च
nāsikā-udara-oṣṭha-jaṅghā-danta-karṇa-śṛṅgāc ca
4.1.56
न क्रोडादि-बह्वचः
na kroḍādi-bahvacaḥ
4.1.57
सह-नञ्-विद्यमान-पूर्वाच् च
saha-nañ-vidyamāna-pūrvāc ca
4.1.58
नख-मुखात् सञ्ज्ञायाम्
nakha-mukhāt sañjñāyām
4.1.59
दीर्घजिह्वी च च्छन्दसि
dīrghajihvī ca cchandasi
4.1.60
दिक्-पूर्वपदान् ङीप्
dik-pūrvapadān ṅīp
4.1.61
वाहः
vāhaḥ
4.1.62
सख्य् अशिष्वी इति भाषायाम्
sakhy aśiṣvī iti bhāṣāyām
4.1.63
जातेर् अस्त्रीविषयाद् अय-उपधात्
jāter astrīviṣayād aya-upadhāt
4.1.64
पाक-कर्ण-पर्ण-पुष्प-फल-मूल-वाल-उत्तरपदाच् च
pāka-karṇa-parṇa-puṣpa-phala-mūla-vāla-uttarapadāc ca
4.1.65
इतो मनुस्य-जातेः
ito manusya-jāteḥ
4.1.66
ऊङ् उतः
ūṅ utaḥ
4.1.67
बाह्वन्तात् सञ्ज्ञायाम्
bāhvantāt sañjñāyām
4.1.68
पङ्गोश् च
paṅgoś ca
4.1.69
ऊरु-उत्तरपदाद् औपम्ये
ūru-uttarapadād aupamye
4.1.70
संहित-शफ-लक्षण-वाम-आदेश् च
saṃhita-śapha-lakṣaṇa-vāma-ādeś ca
4.1.71
कद्रु-कमण्डल्वोश् छन्दसि
kadru-kamaṇḍalvoś chandasi
4.1.72
सञ्ज्ञायाम्
sañjñāyām
4.1.73
शार्ङ्गरव-आद्य्-अञो ङीन्
śārṅgarava-ādy-año ṅīn
4.1.74
यङश् चाप्
yaṅaś cāp
4.1.75
आवङ्याच् च
āvaṅyāc ca
4.1.76
तद्धिताः
taddhitāḥ
4.1.77
यूनस् तिः
yūnas tiḥ
4.1.78
अण्-इञोर् अनार्षयोर् गुरु-उपोत्तमयोः ष्यङ् गोत्रे
aṇ-iñor anārṣayor guru-upottamayoḥ ṣyaṅ gotre
4.1.79
गोर-अवयवात्
gora-avayavāt
4.1.80
क्रौड्य्-आदिभ्यश् च
krauḍy-ādibhyaś ca
4.1.81
दैवयज्ञि-शौचिवृक्षि-सात्यमुग्रि-काण्ठेविद्धिभ्यो ऽन्यतरस्याम्
daivayajñi-śaucivṛkṣi-sātyamugri-kāṇṭheviddhibhyo 'nyatarasyām
4.1.82
समर्थानां प्रथमाद् वा
samarthānāṃ prathamād vā
4.1.83
प्राग् दीव्यतो ऽण्
prāg dīvyato 'ṇ
4.1.84
अश्वपत्यादिभ्यश् च
aśvapatyādibhyaś ca
4.1.85
दित्य्-अदित्य्-आदित्य-पत्य्-उत्तरपदाण् ण्यः
dity-adity-āditya-paty-uttarapadāṇ ṇyaḥ
4.1.86
उत्स-आदिभ्यो ऽञ्
utsa-ādibhyo 'ñ
4.1.87
स्त्री-पुंसाभ्यां नञ्-स्नञौ भवनात्
strī-puṃsābhyāṃ nañ-snañau bhavanāt
4.1.88
द्विगोर् लुग्-अनपत्ये
dvigor lug-anapatye
4.1.89
गोत्रे ऽलुग्-अचि
gotre 'lug-aci
4.1.90
यूनि लुक्
yūni luk
4.1.91
फक्-फिञोर् अन्यतरस्याम्
phak-phiñor anyatarasyām
4.1.92
तस्य अपत्यम्
tasya apatyam
4.1.93
एको गोत्रे
eko gotre
4.1.94
गोत्राद् यून्य् अस्त्रियां
gotrād yūny astriyāṃ
4.1.95
अत इञ्
ata iñ
4.1.96
बाह्व्-आदिभ्यश् च
bāhv-ādibhyaś ca
